शनिवार, 17 जुलाई 2010

अष्टाध्याय्याम् वृत्तिविचारः ।।

।। अष्टाध्याय्यां वृत्तिविचारः ।।
वसन्तकुमारो भट्टः
निदेशकः, भाषासाहित्यभवनम्, गुजरात विश्वविद्यालयः, अहमदावाद – 380 009
भूमिका – भाषाव्यवहारः सदैव वक्तृजन-श्रोतृजनयोर्मध्ये प्रवर्तते । अतः कस्या अपि भाषाया व्याकरणं द्विधा विरचयितुं शक्यते । एकं व्याकरणं श्रोतृणां कृते, अपरञ्च वक्तृणां कृते । अत्र 1. श्रोतृणां कृते यद् व्याकरणं स्यात् तस्मिन् वाक्याद् आरभ्या-Sर्थप्राप्तिपर्यन्तानि सोपानानि प्रदर्श्यन्ते । अत्र वाक्यस्य विघटनं निरूप्यते । व्याक्रियन्ते पृथक्क्रियन्ते शब्दा अनेनेति व्युत्पत्तिं चरितार्थां कुर्वाणा काSपि पद्धतिरनुसर्तव्येति कथनस्याशयः । 2. एवञ्च वक्तृणां कृते यद् व्याकरणं भवेत् तस्मिन् विवक्षिताद् अर्थादारभ्य वाक्यसिद्धिपर्यन्तं निरूपणं कर्तव्यम् । इमां द्वितीयां पद्धतिम् अनुसृत्य महर्षिणा पाणिनिनाSष्टाध्यायी विरचितेति दृश्यते । यतो हि – वक्तृणां मनस्सु ये विचाराः प्रादुर्भवन्ति तेषां वैखर्या वाण्या ध्वनिश्रेण्यां प्रकटीकरणम् अनिवार्यम् । अतः कमपि विचारं पूर्वं मनसि निश्चित्य, तस्यार्थस्य रूपान्तरणं कृत्वा वाक्यनिर्मितिः कथं कर्तव्येति प्रथममेव केनापि वक्त्रा ज्ञातव्यम् एव । अतः महर्षिः पाणिनिर् वक्तृणां कृते यद् व्याकरणं विरचयति, तस्मिन् “साधकतमम्, ध्रुवमपाये, कर्मणा यमभिप्रैति ( इति कारकपादे ) , वर्तमाने, परोक्षे, ( इति लकार-निरूपणे ), सत्तायाम्, व्यक्तायां वाचि ” ( इति धातुपाठे ) इत्यादिशब्दैः प्रथमम् अर्थनिर्धारणं करोति । तदनन्तरं तेभ्यः सर्वेभ्य अर्थेभ्यः करणम्, सम्प्रदानम्, अपादानम्, इत्यादीनि कारकसंज्ञादीनि प्रददाति । ततो महर्षिणा तेषां कारकादीनां प्रकटीकरणाय विभिन्नाः प्रत्यया विधीयन्ते । ततः स्थान्यादेशभावस्य प्रयुक्त्या तेषां प्रत्ययानां ध्वनिश्रेण्याम् आवश्यकं परिवर्तनं निर्दिश्यते । अन्तिमे च सोपाने सन्धिकार्यं कृत्वा, प्रयोगार्हस्य वाक्यस्य सिद्धिः सम्पाद्यते ।। अष्टाध्याय्याम् एतादृशं निरूपणं दृष्ट्वाSSधुनिकैर् वैयाकरणैर् अष्टाध्याय्याम् शब्दनिष्पादकस्य तन्त्रस्य ‘दर्शनं’ क्रियते । अर्थात् महर्षिणा पाणिनिना शब्दनिष्पादनात्मकं तन्त्रं ( Generative grammar ) व्याकरणं निर्मितमित्युच्यते । एतादृशस्य व्याकरणस्य कृते व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेनेति व्याकरणम् इति व्युत्पत्तिः सुसंगता भवति ।।
परन्तु पाणिनेर् अष्टाध्याय्याम् निरूपितस्य व्याकरणस्य यत् स्वरूपम् अद्यावधि विद्वद्भिर् आकलितं तत्र वृत्ति-विचारस्य किमपि स्थानं नास्ति । प्रत्युत तस्य ( वृत्तिविचारस्य ) सर्वथोपेक्षा तैर्विहितेति प्रतीयते । अतः प्रस्तुते शोधपत्रे वृत्ति-विचारम् अधिकृत्य पाणिनेर् अष्टाध्याय्याः पूर्णं स्वरूपं कीदृशं प्रतिभातीति विवेचनाय प्रयतिष्यते ।।
1 – 1 “ समर्थः पदविधिः ” ( 2- 1 – 1 ) इति परिभाषा-सूत्रस्य कोSर्थ इति विचार्यमाणे भट्टोजिदीक्षितेन सिद्धान्तकौमुद्यां लिखितं यद् - पदसम्बन्धी यो विधिः, स समर्थाश्रितो बोध्यः । अस्य सूत्रस्य च व्याख्यानावसरे , पतञ्जलिना स्पष्टीक्रियते यद् समर्थ इति पदेन 1. व्यपेक्षाभावरूपं सामर्थ्यं, 2. एकार्थीभावरूपञ्च सामर्थ्यम् अत्र विवक्षितं वर्तते । प्रथमेन च सामर्थ्येन वाक्यस्य सिद्धिर्भवति., द्वितीयेन चैकार्थीभावरूपेण सामर्थ्येन समासादयः पञ्चवृत्तयः भवन्ति ।
पदविधिरिति शब्दं, पतञ्जलिरित्थं विवृणोति – “ किं पुनर् विधीयते । 1. समासो, 2.विभक्तिविधानं 3. पराङ्वद्भावश्च ” ।। ( 2-1-1 भाष्यम् पृ. 359 ) अत्र नागेशो भट्टः स्पष्टीकरोति यद् समासपदं वृत्तिमात्रोपलक्षणम् । ( उद्द्योतः, पृ. 313 ) किन्तु विभक्तिविधानमिति शब्देन वाक्यसिद्धिरपि व्यपेक्षाभावरूपं सामर्थ्यम् अपेक्षत इत्यपि पतञ्जलिना निर्दिष्टमेव । अत एव नागेशेनैव तत्रेत्थम् अपि स्पष्टीकृतं यत् – केचित्तु पदोद्देश्यकः पदत्वसम्पादको वा सर्वो Sपि पदसम्बन्धित्वात् पदविधिरेवेति वदन्ति । ( तत्रैव उद्द्योतः, पृ. 313 )
अनया चर्चया सुष्ठु ज्ञायते यद् अस्याम् अष्टाध्याय्यां द्वौ विधी वर्तेते । एको विधिः – पदत्वसम्पादक आस्ते., द्वितीयश्च विधिः – पदोद्देश्यकोSपि नितराम् आस्ते । अत अष्टाध्याय्याः सूक्ष्ममान्तरिकं स्वरूपं निर्णेतुम् द्वावपि विधी सूक्ष्मेक्षिकया निरीक्षणीयौ ।
1 – 2 पाणिनेर्व्याकरणस्यान्तरिकं स्वरूपं द्रष्टुम् प्रथममेकः प्रश्नो विचारणीयो भवति । तद्यथा – पाणिनिः किं पदसंस्कारपक्षस्य पुरस्कर्ता, उत वा वाक्यसंस्कारपक्षस्य पुरस्कर्ता । तर्हि विद्वद्भिर्निणीतं यद् पाणिनिः शब्दसाधनिकावस्थायां ( प्रक्रियादशायाम् ) केवलं वाक्यसंस्कारपक्षम् एव स्वीकृतवान् । यतो हि – महर्षिणः पाणिनिः “ लः कर्मणि च भावे चाकर्मकेभ्यः,” तथा “ अनभिहिते ” इति च सूत्राभ्यां वाक्यस्यैव सिद्धिरादितः मनसि निधाय, सूत्राणि विरचयतीति प्रतिभाति ।।
परन्तु वाक्यसंस्कारपक्षस्य पुरस्कर्ता पाणिनिर् वाक्यान्तर्गतानां सुबन्त-तिङन्तपदानां साधनिकां यदा प्रदर्शयति, तदा वृत्तिजन्यानां पदानां स्थानं कुत्र विराजते, तदपि गवेषणीयम् । एतादृशे प्रश्ने समुद्भाविते – समुद्भूते सति, कार्यशब्दवादिनां यन्मतं तत्प्रथमं निपुणं निभालनीयम् । अष्टाध्याय्याः स्वरूपनिर्धारणाय तेषां कार्यशब्दवादिनाम् अभिप्रायः परमोपकारकोSस्ति ।
2 – 1 ये कार्यशब्दवादिनः सन्ति त इत्थं मन्वते यद् वृत्ति-वाक्ययोरर्थः सर्वथाSभिन्न एव । त एवमपि वदन्ति यद् वाक्यं नष्टीकृत्यैव समासादिवृत्तयः संसाध्यन्ते । ( अत एव तत्त्वबोधिन्यां “ समसनं समासः, भावे घञ् । अनेकस्य पदस्य एकपदीभवनम् इत्यर्थ इत्येके ।“ इति लिखितम् । ) प्रथमतया, वाक्यसंस्कारपक्षम् अनुसृत्य यद् वाक्यं निर्मितं तस्य वाक्यस्य यानि पदानि सन्ति, तानि पदानि प्रकृति-प्रत्यययोः पृथक्कृत्य, तत्र “ सुपो धातुप्रातिपदिकयोः ” (2 – 4 -71 ) इत्यनेन विभक्ति-प्रत्ययानाञ्च लोपं कृत्वा, कृत्-तद्धितान्तसमासादीनां प्रातिपदिकत्वं जोघुष्यते । अत्रैकपदीभवनान्तरं यो Sर्थः पूर्वसिद्धस्य वाक्यस्यासीत्, स एवार्थ वृत्तितः संप्राप्यते । अत्र “ समः अर्थः यस्य स समर्थ इति ” व्युत्पत्तिरपीदम् एव कथयति यद् वृत्ति-वाक्ययोरर्थः सर्वथा Sभिन्न एव ।। एवञ्च परार्थाभिधानं वृत्तिरिति भाष्योक्तेरपीदमेवाशयः ।।
2 – 2 कार्यशब्दवादिनः स्वकीयं मतं समर्थयितुं “ विभाषा ” ( 2 – 1 - 11 ) इति द्वितीयाध्यायस्य प्रथमपादस्यैकादशीयं सूत्रं प्रमाणत्वेनोपस्थापयन्ति । ते “ विभाषा ”( 2 -1-11 ) इत्यधिकारसूत्रं महाविभाषात्वेन ख्यापयन्ति । अनेन सूत्रेण “ राज्ञः पुरुषः ” इति वाक्यस्य, “ राजपुरुष ” इति वृत्तिजन्यस्य च पदस्य साधुत्वम् समानार्थत्वञ्च समुद्घोष्यते । वाग्व्यवहारकाले “ राज्ञः पुरुष ” इति वाक्यमपि साधु, “राजपुरुष” इति सामासिकं पदमपि साधु । तेनोभावपि प्रयोगौ सर्वथा स्वीकार्याविति महर्षिणा सूत्रकारेण सुष्ठु ज्ञापितम् । वृत्ति-वाक्याभ्याम् अर्थप्रतीतिरपि समानैव जायते । येन च, राज्ञः पुरुषम् आनय इत्युच्यमाने यस्यानयनं भवति, तस्यैवानयनं राजपुरुषम् आनय इत्युच्यमाने भवति । अतः नास्ति को S पि भेदो वृत्ति-वाक्ययोर् मध्ये ।।
2 – 3 कार्यशब्दवादिभिः द्वितीयमपि प्रमाणम् उपस्थाप्यते यद् महर्षिणा पाणिनिना “ नित्यं क्रीडाजीविकयोः ”(2-2-17) इत्येतस्मिन् सूत्रे नित्यमिति यत् पदं प्रयुक्तम्, तदतीव ध्यानार्हम् । तद्यथा - “ उद्दालक-पुष्पभञ्जिका ” इति शब्देन अमुकक्रीडेत्यर्थो Sवबोध्यते । परन्तु यदा “उद्दालकस्य पुष्पाणि भज्यन्ते यस्यां क्रीडायाम् ” इत्येतादृशं विग्रहवाक्यं प्रयुज्यते, तदा अमुक(विशिष्टा)क्रीडाया बोधो न जायते । अतः पाणिनिना स्वयमेवात्र “नित्यमिति” शब्दग्रहणेन, महाविभाषया विकल्पेन प्राप्तस्य वाक्यस्य निवृत्तिः क्रियते । तेन ज्ञायते यद् यत्र नास्ति नित्यमिति पदम्, तत्र सर्वत्रापि महाविभाषया वृत्ति-वाक्ययोर् विकल्पः समानार्थबोधकत्वेनैव प्रचलति ।।
2 – 4 तद्धितवृत्तिविषये Sपि वृत्ति-वाक्ययोः समानार्थकत्वे सत्यपि , प्रौढिवादेनैकाम् अभिनवां दृष्टिम् अनुसृत्य किञ्चिदुच्यते । तद्यथा – समर्थानां प्रथमाद् वा ( 4 -1 -82 ) इत्यनेन सूत्रेण “ औपगव ” इत्यादीनां शब्दानां सिद्धिर्भवति । सूत्रकारेणात्र यद् “ वा ” इति पदम् अभिप्रवेशितम्, तेन “ औपगव ” इति शब्देन सह, “ उपगोः अपत्यम् पुमान् ” इति वाक्यस्यापि समानार्थकता प्रयोगार्हत्वञ्च सूत्रकारेण स्वीकृतम् । किन्तु पोल किपार्स्की महोदयेन वा – विभाषा – अन्यतरस्याम् इति शब्दानाम् विकल्पवाचकत्वे सत्यपि, तेभ्यः सर्वेभ्यः शब्देभ्यः काS पि स्वल्पा विशिष्टा S र्थच्छाया सम्प्राप्यत इति समुद्घाटितम् । किपार्स्की महोदयस्य मतानुसारेण पाणिनेर्मनसि ‘वा’ इति शब्दस्य Or rather, usually, preferably [ Panini – As a Variationist; by Paul Kiparsky, University of Poona, Pune,1980, p. 1 ] इति विशिष्टार्थोSभिमत आसीत् । तेन “ उपगोः अपत्यं पुमान् ” इति वाक्यापेक्षया “ औपगव “ इति तद्धितान्तस्य रूपस्याधिकतरं प्रयोगार्हत्वम् अस्ति । इत्थं “ समर्थानां प्रथमाद् वा ” इति सूत्रस्थेन ‘वा’ इति शब्देन तद्धितवृतेरधिकतरा स्पृहणीयता वाग्व्यवहारे भवेद् इति संसूच्यते ।।
3 – 0 एकशेषः किं वृत्तिरस्ति न वा ?
3 – 1 पञ्चविधासु वृत्तिषु यैकशेषरूपा वृत्तिः परिगणिता, सा कथं वृत्तित्वेन परिगण्यत इति प्रश्नः । यद्यपि प्रश्नोSयं त एव पृच्छन्ति, ये पाणिनेरष्टाध्यायीस्थां व्यवस्थां नैव जानन्ति । तैरेवं वक्तुं पार्यते – समासरूपा या वृत्तिरस्ति, तस्यामेव एकशेषस्य समावेशो भविष्यति । कस्मादिति चेत् – द्वन्द्वसमासस्य ये विभेदाः सन्ति, तत्रैव एकशेषस्याप्यन्तर्भावो भवितुमर्हति । माता च पिता च इति पितरौ इति एकशेषस्योदाहरणम् इति ।। महर्षेः पाणिनेर्व्याकरणाद् येSनभिज्ञाः सन्ति, ते पितरौ इति पदम् एकशेषद्वन्द्वस्योदाहरणम् मन्वते । परन्तु कथनमिदम् अज्ञानविजृम्भितम् एव । वस्तुतस्तु, एकशेषस्यैकम् अप्युदाहरणं द्वन्द्वसमासस्य भेदत्वेन न स्वीक्रियते । यतो हि - द्वयोर्विषयविभागः सुतरां भिन्न एव । अतः जिज्ञासुना द्वन्द्वस्य च, एकशेषस्य च विषयविभागः प्रथमम् अवगन्तव्यः । बालानाम् सुखबोधायैतत् पर्याप्तम् ।
किन्तु विद्वज्जनानां परितोषायाSत्र महती समीक्षा करणीया । तद्यथा- सरूपाणामेकशेष एकविभक्तौ ( 1 - 2 – 64 ) इत्यत्र भाष्ये पतञ्जलेर्भणितिरियम् यद् अनवकाश एकशेषो द्वन्द्वं बाधिष्यते । अस्या भाष्योक्तेः क आशय इति विचार्यमाणे ज्ञायते यद् – यदि एकशेषो बाधकः, द्वन्द्वश्च बाध्यः, तर्हि उत्सर्गापवादयोः सामानाधिकरण्यम् ( समानविषयता ) भवितुमर्हति । तेन यदि द्वन्द्वसमासस्य वृत्तित्वेन स्वीकृतिः क्रियते, तर्हि एकशेषस्यापि वृत्तित्वेन परिगणनं कर्तव्यमेव । इदमेकं समाधानम् । अपरश्च श्रूयताम् – अष्टाध्याय्याः प्रथमपादस्य द्वितीये पादे एकशेषप्रकरणं नीम्नोक्तैः सूत्रैर्निर्दिष्टम् –
1. सरूपाणामेकशेष एकविभक्तौ ।( 1-2-64),
2. वृद्धो यूना तल्लक्षणश्चेदेव विशेषः । ( 65 )
3. स्त्री पुंवच्च । ( 66 )
4. पुमान् स्त्रिया । ( 67 )
5. भ्रातृ-पुत्रौ स्वसृ-दुहितृभ्याम् । ( 68 )
6. नपुंसकम् अनपुंसकेनैकवच्चास्यान्यतरस्याम् । ( 69 )
7. पिता मात्रा । ( 70 )
8. श्वसुरः श्वश्र्वा । ( 71 )
9. त्यदादीनि सर्वैर्नित्यम् । ( 72 )
10. ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री । ( 73 ) ।
एतैर्दशभिः सूत्रैः द्विविध एकशेषो वर्णितः । (1) सरूपाणामेकशेषः , (2) विरूपाणाञ्चैकशेषः । अस्य द्विविधस्योदाहरणद्वयमपि द्रष्टव्यम् ।
( क ) सैनिक + सैनिक + सैनिक + जस् + आ + गम्( गतौ ) + (झि) अन्ति । अत्र सरूपाणाम् एकशेष एकविभक्तौ ( 1 – 2 – 64 ) इत्यनेनैकस्यैव सैनिकेति प्रातिपदिकस्य भविष्यत्येकशेषः ।। तद्यथा - सैनिक + 0 + 0 + आ + गच्छ् + अ + अन्ति । ततः सैनिका आगच्छन्ति इति वाक्यस्य सिद्धिर्भवति ।। - उदाहरणमिदमस्ति सरूपैकशेषस्य ।।
(ख) ( जगत् + ङ्स् ) + मातृ + अम् + पितृ + अम् + वन्दे ।
अत्र पिता मात्रा ( 1 -2 -70 ) इत्यनेन सूत्रेण पितृ इति शब्दस्यैकशेषो भवति । ( जगतः पितरौ वन्दे । ) इदमुदाहरणम् विरूपाणामेकशेषस्य भवति ।।
3 - 2 अत्रैकशेषस्य नास्ति किमपि विग्रहवाक्यम् । यथा राज्ञः पुरुष इति विग्रहवाक्याद् राजपुरुष इति समासो निष्पाद्यते । कुम्भं करोति इत्येतस्माद् विग्रहवाक्याद् कुम्भकार इति कृदन्तं प्रातिपदिकं निर्मीयते । तथा सैनिका आगच्छन्ति इत्यत्र सरूपैकशेषे , उत वा पितरौ इति विरूपैकशेषे नास्ति पूर्वतः सिद्धं किमपि विग्रहवाक्यम् ।। तथापि – एकशेषो वृत्तित्वेन परिगण्यते । अतः जिज्ञासा विशेषरूपेणोदेति – कथम् एकशेषो वृत्तिरिति । उच्यते – वर्तनं वृत्तिः इति वृत्तिपदस्य व्युत्पत्तिः । तेन विलुप्तानाम् सरूपाणां विरूपाणाम् वा प्रातिपदिकानाम् ( शब्दानाम् ) अर्थे, अवशिष्टस्य प्रातिपदिकस्य प्रवर्तनम् यत्र भवति स एकशेषोSपि वृत्तिरिति निशङ्कं सिध्यति ।।
3 - 3 परन्त्वत्र सर्वैरवधेयम् यद् इयम् एकशेषरूपा वृत्तिस्तु न पदोद्देशको विधिः, वृत्तिरियन्तु पदत्वसम्पादिकाSस्ति । तेन पञ्चविधानां वृत्तीनाम् नीम्नोक्तरीत्या वर्गीकरणं विधेयमिति मन्ये ।
वृत्तयः
पदत्व-सम्पादिका वृत्तिः पदोद्देश्यिका वृत्तयः
1. एकशेषरूपा वृत्तिः 2. कृद्- रूपा वृत्तिः
सा च द्विविधा - 3. तद्धित-रूपा वृत्तिः
(क) सरूपाणामेकशेषः 4. समास-रूपा वृत्तिः
(ख) विरूपाणामेकशेषः 5. सनाद्यन्तधातु-रूपा वृत्तिः

4 – 0 अष्टाध्याय्या आन्तरिकीं संरचनाम् अवगन्तुम् इदानीं विचार्यते –भगवता पाणिनिना अष्टाध्याय्यां किम् केनापि सुनिश्चितेन पौर्वापर्यक्रमेण वृत्ति-वाक्ययोः सिद्धिः प्रदर्शिता ।
4 – 1 पूर्वं यथा निर्दिष्टं तथा वाक्यसंस्कारपक्षम् अनुसृत्य प्रथमं कमपि विवक्षितार्थम् विनिश्चित्य, तस्यार्थस्य कृते विविधाः प्रकृतयः संस्थाप्य, कारकसंज्ञानाम् माध्यमेन विभक्तिप्रत्ययान् अवतार्य, स्थान्यादेशभावेन यानि यानि ध्वनिपरिवर्तनान्यपेक्ष्यन्ते तानि सर्वाणि संपाद्य, प्रसङ्ग- प्राप्तानि सन्धिकार्याण्यपि कृत्वाSन्तिमे सोपाने प्रयोगार्हस्य वाक्यस्य सिद्धिः क्रियते पाणिनीयैः सूत्रैः ।। तद्यथा – “ राजन् + ङस् + पुरुष + सु + गम् + लट् ” इत्यस्माद् ( प्रकृति-प्रत्ययानाम् ) समुदायात् “राज्ञः पुरुषः गच्छति । ” प्रयोगार्हं वाक्यम् निर्मीयते । इत्थम् विवक्षिताद् अर्थाद् आरभ्य प्रवर्तमानं पाणिनीयं व्याकरणचक्रम् अन्तिमे सोपाने वाक्यं निर्माति, किन्तु तावत् पर्यन्तं, ( अर्थाद् अष्टाध्याय्याः पूर्वार्धे ) पाणिनीयस्य व्याकरणतन्त्रस्य परिभ्रमणन्त्वर्धमेव समाप्तम् ।।
4 – 2 अत्र वक्ता यद्यस्य वाक्यस्य व्यवहारदशायाम् प्रयोगं कर्तुम् अभिलषति, तर्हि तस्य वाक्यस्य प्रयोगाय सोSनुमन्यते । परन्तु यदि स वक्ताSस्मादेव वाक्याद् वृत्तिजन्यं सामासिकपदं निर्मातुमिच्छति, तर्हि तस्य कृतेSपि पाणिनीयं व्याकरणं सन्नद्धम् एव तिष्ठति । अत्र च विलसति पाणिनेः पदसंस्कारपक्षः । वक्तुर्मनसि यदा समासप्रयोगस्येच्छा जागर्ति तदा पाणिनेर्व्याकरणतन्त्रस्योत्तरगोलार्धे प्रवृत्तिः ( भ्रमणम् ) प्रारभ्यते । तद्यथा – राजन् + ङस् + पुरुष + सु इत्यलौकिकाद् वाक्याद् शब्दसाधनिका Sग्रे प्रचलति । अत्र “ प्राक्कडारात्समासः ” इत्यधिकारान्तर्गतं “ षष्ठी ” इत्येतत् सूत्रं प्रथमं समाससंज्ञां विदधाति, ततः “ कृत्-तद्धित-समासाश्च ”इति सूत्रेण समाससंज्ञकस्य प्रकृति-प्रत्ययसमुदायस्यैका Sपरा प्रातिपदिकेति संज्ञा भवति । इदानीं या या संज्ञा सा सा फलवतीति न्यायेन, प्रातिपदिकसंज्ञाम् अनुसृत्य “ सुपो धातु-प्रातिपदिकयोः ” इति सूत्रेण प्रातिपदिकान्तर्गतस्य ये ये विभक्तिप्रत्ययाः सन्ति, तेषां समेषां लोपो भविष्यति । ततः “ नलोपः प्रातिपदिकान्तस्य ” इत्यनेन सूत्रेण राजन् इत्यस्माच्छब्दान् नकारस्यापि लोपो भविष्यति; येन “राजपुरुष” इति षष्ठीतत्पुरुष-समासस्य सिद्धिः पूर्णतां गमिष्यति । अस्य कथनस्याSयम् आशयः – वाक्यसिद्धिं विधाय पाणिनेर्व्याकरणं तत्रैव न विरमति । परन्तु तस्मादेव वाक्यात् समासादिरूपम् पदमपि सुतरां जनयति । ततः “ राजपुरुषो गच्छति ” इत्यपि वक्तुं पार्यते ।। ( अर्थाद् अग्रेप्येतादृशं वाक्यम् अपि निर्मातुं शक्यते । )
4 – 3 परन्तु पाणिनीयं तन्त्रमत्रापि विरामं नानुभवति । यदि को S पि वक्ता राजपुरुष इति शब्दं ( प्रातिपदिकम् ) विशेषणत्वेन प्रयोक्तुम् अभिलषति तर्हि तन्त्रमिदं तस्य वक्तुः साहाय्यं वितनोत्येव । तत्कथम् इति चेत् –श्रूयताम् । विष्णुमित्रो राजपुरुषाय देवदत्ताय धनं प्रयच्छति ” इत्यादिस्वरूपकं कमप्यर्थं प्रकटीकरणाय, राजपुरुष + ङे + देवदत्त + ङे.....इत्यादिभिर् व्याकरण-सोपानैः प्रक्रियां सम्पाद्य तस्य वृत्तिजन्यस्य सामासिकपदस्यापि पुनः पुनर् नवीने वाक्ये प्रवेशो भवितुमर्हत्येव ।।

4 – 4 तदनन्तरं यदि राजपुरुषश्चासौ देवदत्तश्चेति कर्मधारय-समासस्य रचनां कर्तुम् वाञ्छति कश्चिद् वक्ता तर्हीदमेव पाणिनीयं व्याकरणं तत्रापि तस्य साहाय्यं करोत्येव । येन च – राजपुरुषदेवदत्ताय नगरस्य प्रजाः क्रुध्यन्ति । इति वाक्यं जनयित्वा पाणिनीयं व्याकरणं वक्तारम् उपकरोत्येव ।। इत्थं पाणिनेरष्टाध्यायी चक्रवद् अनवरतम् अहर्निशञ्च परिभ्रमति । अस्त्येतादृशी पाणिनेरष्टाध्याय्या आन्तरिकी संरचना ।।


अथोपसंह्रियते --

1. पाणिनेर्व्याकरणतन्त्रं प्रक्रियावस्थायाम् पूर्वार्धे शब्दनिष्पादनात्मकमप्यस्ति । एवमेव तदेव व्याकरणमुत्तरार्धे रूपान्तरणात्मकमपि दृश्यते ।
2. वाक्यसंस्कारपक्षं पुरस्कृत्य, प्रक्रियावस्थायाम् प्रथमम्, अर्थाद् आरभ्य वाक्यसिद्धिः प्रदर्श्यते । तदनन्तरं तदेव वाक्यं विग्रहवाक्यरूपेण स्वीकृत्य विविधानाम् पदानाम् उपरि संस्कारो विधीयते । अनेन च वृत्तिविधायकेन कार्येण, कृदन्त-तद्धितान्तादीनां पदानाम् ( प्रातिपदिकानाम्) सिद्धिर्भवति । अतः पदसंस्कारपक्षोSपि पाणिनिना स्वीकृतः । किन्तु तादृशः पक्षस्तु तन्त्रस्योत्तरार्धे वर्णितः ।
3. पाणिनीयं व्याकरणतन्त्रं चक्रवद् अनवरतं परिभ्रमति । तद् व्याकरणं वक्तुश्च नैकान् विचारान् श्रोतारं सम्प्रेषयितुम् वृत्ति-वाक्ययोर्विकल्पमपि वितनोतितमाम् ।
4. वृत्ति-वाक्ययोः वैकल्पिकत्वे समानार्थबोधकत्वे सत्यपि समर्थानां प्रथमाद् वा इत्यनेन साध्यमानानां तद्धितान्तानाम् प्रयोगार्हतरत्वमपि स्वीकरणीयम् ।
5. एकशेषरूपा वृत्तिः पदत्वसम्पादिकास्ति । तथान्याः चतस्रो वृत्तयः पदोद्देश्यिकाः सन्ति ।

----------------------

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें